Here you will Get Information about Dr Rajendra Prasad in Sanskrit Language. Get Essay on Dr Rajendra Prasad in Sanskrit Language – डॉ० राजेन्द्रप्रसा संस्कृत निबंध
Essay on Dr Rajendra Prasad in Sanskrit – डॉ० राजेन्द्रप्रसा संस्कृत निबंध
डॉ० राजेन्द्रप्रसादः स्वसाधु प्रकृत्या, सत्यनिष्ठया, त्यागवृत्या अन्यैश्च प्रशस्यतमैः गुणैः भारतीयानां हृदयेषु आत्मन एकाधिपत्यं स्थापितवान् । चतुरशीत्युत्तराष्टादशशततमे (१८८४) अब्दे विहारप्रान्ते सारनमण्डले एकस्मिन् साधारणे कृषकपरिवारे तस्य ।
जन्म अभात् । . माध्यमिकपरीक्षां प्रथमश्रेण्या मुत्तीर्य स रजतपदकं छात्रवृत्ति च प्राप्तवान् । तदनन्तरं । स सर्वातु अपि परीक्षालु सर्व प्रथमः अभवत् ।।
पञ्वोत्तरैकोनविंशतिशततमें। (१९०५) अब्दे स विहार प्रान्तीयस्य छात्रसंघस्य स्थापना मकरोत् यस्य प्रथमाधिवेशनं तस्य अध्यक्षतायां सम्पन्नमभूत् ।
तदनन्तरं स वर्षस्य मुजफ्फरपुरस्थे ब्राह्मणमहाविद्यालये कलकत्तानगरस्थे ‘मॅज़ीजैसी महाविद्यालये च अध्यापनकार्यमकरोत् ।।
ततश्च पञ्च वर्षाणि कलकत्तानगरे उच्चतमन्यायालये वाक्कीलकायं तवान् । परन्त अस्मै कार्याय अस्य हृदये स्वाभाविकी घृणा उदपद्यत । अत: तत आरभ्य अयं लोकहितकारिषु कार्येषु संलग्नोऽभवत् ।।
सर्वप्रथम चम्पारनगरे महात्मनो गान्धिनः अस्य साक्षात्कारो जातः । तत: आरभ्यैव अय तस्य अनन्यतमः अनुयायी अभूत् । चम्पारनसत्याग्रहे अयं महात्मने सहयोगं दत्तवान् येन महात्मा गाँधी तस्मिन् सत्याग्रहे पर्याप्त सफलतामवाप्तवान् ।
स्वतन्त्रताप्राप्त्यनन्तरं स स्वीयैः उत्कृष्टतमैः गुणे : भारतीयजनतन्त्रस्य राष्ट्रपतिपदमलं कुर्वाणः सर्वतोभावेन लोकहितकार्येषु दत्तचित्तोऽवर्तत । इदमुच्चतममधिकारपदमध्यासीन: स दशवर्षाणि यावत् निरीहवृत्त्या तन्मनस्कतया च देशसेवां कुर्वन् द्विषष्ट्युतकोनविंशतिशततमे (१९६२, अब्दे स्वकार्यतः विश्राम गृहीतवान् । तदनन्तरं च म निषष्ट्युत्तरेकोनविंशतिशततमे (१९६३) अब्दे भारतस्य दौर्भाग्येन दिवमगात् ।। अनरुतस्यात्मने शान्ति दद्यात् ।।
We hope you will like this Essay on Dr Rajendra Prasad in Sanskrit Language. Please do Like or Share this article.
Related Articles: