Here you will Get Information about Swami Dayanand Saraswati in Sanskrit Language. Essay on Swami Dayanand Saraswati in Sanskrit language for students of all classes. महर्षि दयानन्द संस्कृत निबंध
Essay on Swami Dayanand Saraswati in Sanskrit language – महर्षि दयानन्द संस्कृत निबंध
महर्षि दयानन्द: यदा मानवाः धर्मस्य तत्त्वं सर्वथा विस्मृत्य बाह्याडम्बरमेव धर्म स्वीकत मारभन्ते तदा समाजे कस्यचित् समाजसुधारकस्य आवश्यकता भवति । हिन्दुसमाजस्याऽपि एकोनविशशताब्द्या अन्तिमे भागे एतादृशी एव अवस्था असीत् । तत्र अनेकशः आडम्बराणि आगतानि आसन् । तान्येव च सामाजिकः अज्ञानवशात् धर्मत्वेन स्वीकृतान्यभवन । अपरश्च देशे ‘क्रिश्चियन’ -धर्मस्य महान प्रचारोऽप्यासीत् । एवंविधं भयावहे काले एतादशस्य कस्यचित् महापुरुषस्य अावश्यकता आसीत् यः समाजे क्रिश्चियन-धर्मस्य प्रचारमवरुध्य सामाजिकान् धर्मस्य वास्तविक रूपं प्रदर्शयेत् । ईदृशे काले काठियावाड़प्रान्ते एकस्य निर्धनब्राह्मणस्य गृहे स्वामिनः दयानन्दस्य जन्म अभवत् । स च बाल्यकाले एव संन्यास गहीतवान् । ततश्य स कञ्चित्कालमितस्तत: पर्यटन् अनूपनगरे स्वामिनः विरजानन्दस्य पाश्र्व आगतवान् । स्वामी विरजानन्दस्तं समस्तं वैदिक वाङ्मयमध्यापितवान् । महर्षि दयानन्दश्च समाजाद् अज्ञानतिमिरान्धत्वं दूरीकृत्यं ज्ञानं प्रकाशयितु प्रतिज्ञातवान् ।
ततश्च स भारते विभिन्नतीर्थषु अन्येषु च पवित्रस्थानेषु परिभ्रम्य वैदिकधर्मस्य प्रचारं कृतवान्, हिन्दुसंस्कृते: वास्तविक स्वरूपं च समाज प्रदशितवान् । अज्ञानम् अन्धविश्वास म्, अविद्या, दुराचारं, पाखण्ड कुप्रथादिकं च समाजात् समुन्मूल्य स ज्ञान प्रसारयितुमारभत । एतन्निमित च स सर्व प्रथमं बम्बईनगरे आर्य समाज स्थापितवान् एतदनन्तरं च अन्येषु अपि महत्सु नगरेषु अर्यसमाजस्य स्थापना अभवत् । अद्य तु प्रायः समस्ते एब भारते विभिन्ननगरेषु ग्रामेषु चापि आर्यसमाजसंस्थाः दृश्यन्ते यत्र सामाजिका: अहर्निशं वैदिकधर्मस्य प्रचारं कुर्वन्ति ।।
एवं च स्वामिना दयानन्देन समाजस्य महान् उ५ ारः कृतः । अधुना भारते विभिन्ननगरेषु तस्य नाम्ना अनेकशः विद्यालया: महाविद्यालयाश्च स्थापिताः दृश्यन्ते । तस्य समस्तमपि जीवनं धर्म-कन व्य-परोपकारादिभिः समलंकृतमासीत् । हिन्दुसमाजस्तस्य चिरं ऋणी भविष्यति ।।
We hope you will like this Essay on Swami Dayanand Saraswati in Sanskrit language. Please do Like or Share this article.
Related Articles: