Here you will Get Information about Ramayana in Sanskrit Language. Get Essay on Ramayana in Sanskrit Language – रामायण संस्कृत निबंध
Essay on Ramayana in Sanskrit – रामायण संस्कृत निबंध
संस्कृतसाहित्ये रामायण महाभारतं चेत्येते द्व ऐतिहासिक महाकाव्ये (Epics) उपलभ्यते । एतयोः रामयणं संस्कृतसाहित्यस्य आदिकविना महर्षणा वाल्मीकिना निबद्धम् । अतएव एतत् संस्कृतसाहित्ये आदिकाव्यमुच्यते । एतस्मिन् न केवलं युदानां विजयानां च रोमहर्षकाणि वर्णनानि उपलभ्यन्ते प्रत्युत आलंकारिकभाषायां प्रकते: अनेकशः अनुपमानि सजीवानि च चित्राणि अपि दृश्यन्ते । श्रेण्यसंस्कृतसाहित्ये केवलमेतदेव एक मेवंविधं महाकाव्यं वर्तते यस्मिन् वयं सर्वप्रथम काव्यमयीं सजीवामालंकारिक भाषामवलोकयामः । अत एवेदं विद्वभिः आदिकाव्यम्, एतस्य प्रणेता च आदिकविनगद्यते ।। | न केवलमादिकाव्यत्वादादिकविप्रणीतत्वादेवेदं महत्त्वपूर्ण वर्तते अपितु एतस्मिन् । अन्यान्यपि कानिचित् साहित्यकानि, सामाजिकानि, ऐतिहासिकानि च तथ्यभूतानि तत्त्वानि सन्ति, यैविद्वांस एतस्य महत्त्वं स्वीकुर्वन्ति । ।
यदा वयमिदं साहित्यिकदृष्ट्या पश्यामस्तदाऽवलोकयामो यदेतद् आरम्भत एव अनेकेषां कवीनां नाटक काराणां च कृती र स्फूतिकारणं वरीवृत्यते । अनेक: कालिदासभवभूतिप्रभृतिभिः कलाकारैरेतस्मात् स्फूतिमादाय समये समये अनेकानि ग्रन्थरत्नानि निर्माय भारतीय-संस्कृतसाहित्यस्य श्रीवृद्धिः कृता । न केवलमेतदेव, अपितु बौद्धकविना अश्वघोषणाऽपि अस्माद् ग्रन्थरत्नात् प्रचुरा सामग्री स्वग्रन्थेषु यत्र-तत्र येन
केनचिद् रूपेण स्वीकृता । हिन्दीसाहित्ये महाकविना तुलसीदासेन रामचरितमानसस्य रचनापि इदमेव ग्रन्थरत्नमाधारीकृत्य कृता । इत्थं चेदं साहित्यिकदृष्ट्याऽतीव महत्त्वपूर्ण महाकाव्यं वर्तते । । । सांस्कृतिकदृष्ट्या सामाजिकदृष्ट्या वा दर्शनेन इदं मानवमात्रस्य महत्त्वपूर्ण नैतिकाचार-शस्त्रमपि वर्तते । एतस्य सर्वा अपि शिक्षाः नैतिक्यो व्यावहारिक्यश्च मन्ति । एतस्मिन् लेखकेन दशरथ-सीताराम-भरत-लक्ष्मण प्रभृतीनामनेकेषां पात्राणामुदाहरणानि ददता मानवजीवनस्य अनेकाः समस्याः समाहिताः । एतस्मिन् लेखकेन समाहितानां जीवनसमस्या समाधानानि सवण्यपि तथाविधानि सौष्ठवपूर्णानि वर्तन्ते यै मनवः स्वीय जीवनमादर्श कतु शक्नोति । । अन्ते च ऐतिहासिकदष्ट्याऽपि इदं महाकाव्यमत्यन्तं महत्वपूर्ण वर्तते । यदि कश्चित् प्राचीनभारतीयसंस्कृते: आधुनिक भारतीय-संस्कृतेश्च तुलनात्मकमध्ययनं कर्तमीहते तदेदं महाकाव्यं तदर्थ मत्यन्त मुपादेयं वर्तते यतोऽस्मिन्नेव ग्रन्थे प्राचीनभारतीयसंस्कृतेः समुचित च चित्रमुपलभ्यते ।
इत्थं चेदं महाकाव्यं संस्कृत-साहित्ये एकमत्यन्तं सुन्दर प्रभावपूर्ण मनुपमं च ग्रन्थरत्नं कथयितुं शक्यते ।
We hope you will like this Essay on Ramayana in Sanskrit Language. Please do Like or Share this article.
Related Articles: