Here you will Get Information about Samrat Ashok in Sanskrit Language. Get Essay on Samrat Ashok in Sanskrit Language – सम्राट् अशोक संस्कृत निबंध
Essay on Samrat Ashok in Sanskrit – सम्राट् अशोक संस्कृत निबंध
महाराजः अशोकः मौर्यवंशे एकः प्रसिद्धः सम्राट् बभूव । स च महाराजस्य चन्द्रगुप्तस्य पौत्रो बिन्दुसारस्य च पुत्रः आसीत् । स हि चत्वारिंशद्वर्षाणि राज्यं कृतवान् । सिंहासनारोहणात् पूर्व से उज्जैन-तक्षशिलाप्रान्तयोः राज्यपाल आसीत् । एतयो: प्रान्तयोः शासन कुर्वन्नेव स शासनचातुर्यं सम्यगधिगतवान् । अतएव महाराजो बिन्दुसार: ज्येष्ठं पत्रमपहाय तमेव स्वीयमुत्तराधिकारिण चकार ।।
अशोकस्य सिंहासनारोहणकाले प्रायः समस्तेऽपि भारते वर्षे मौर्यवंशस्य साम्राज्यमासीत । केवलं कलिङ्गाधिपतिरेव तस्य अधिपत्यं न स्वीचकार । अशोकः कलिङ्ग विजेत देशमाक्रान्तवान् । तस्मिन् युद्ध प्रायः एक लक्षं मानवा:, मृत्युमुपागच्छन् बहवश्च बन्दीकताः । अस्मिन् युद्ध ऽशोकः सवंत: सं जातं रक्तपातं दर्शदर्शमतिकरुणाई चेता बभूव ! अनेन रक्तपातेन स एवं प्रभावितोऽभवद् यद भविष्ये स सर्वथा युद्धविचारमेव परित्य| क्तवान, बौद्धधर्मस्य दीक्षां चाऽङ्गचकार एतस्य विचारपरिवर्तनस्य तस्य शासनकायेषु | अपि महान प्रभावो जातः । एतेन तस्य राजप्रबन्धे महत् शैथिल्यमागतम् ।।
अशोकस्प स्वप्रजया अत्युत्तमो व्यवहारः आसीत । स हि सदैव स्वीयां प्रजामपूत्रीयत् । निधनाना, वृद्धानां, विधवानामनाथानां च पालनं राजकीयकोषात् समभवत् । राज्यकर्मचारिणश्चाऽपि प्रजार्थ साधने दत्तचित्ता: असन् । अशोकश्च काले काले स्वकर्मचारिणां कार्य द्रष्ट देशभ्रमणमपि अकरोत् । एतेन तस्य कर्मचारिणः सदा सावधानाः समभवन् । अशोकेन स्वराज्ये यत्रतत्न अनेकशः आतुरालयाः संस्थापिता:, प्रन्यानि च अनेकानि प्रजाहितकराणि कार्याणि कृतानि । एवं च तस्य समस्तमेव जीवनं प्रजार्थसाधने व्यतीतम् ।।
We hope you will like this Essay on Samrat Ashok in Sanskrit Language. Please do Like or Share this article.
Related Articles: